शरदा ज्योत्स्नया कान्ता वसन्तेन सुशोभिता
चपला चञ्चला चैव स्मिता भीता समाहिता ।
त्वमेका मृदुवाक्येन कोकिलांं च कोकिला
प्रकृत्यैव नता धीरा स्वभावेन शकुन्तला ।
मृदुला कोमला वामा वासन्ती कुसुमाधरा
मानिनी मम मैत्रेयी प्रज्ञानेन मनोहरा ।
मन्दाक्रान्तोऽस्म्यहं प्रेम्णा प्रेमाक्रान्तं च ते मन
मनसा चात्मना नम्रा त्वमेका मम नायिका ।
:नरेन्द्र पराशर

No comments:
Post a Comment