Saturday, February 1, 2014

कवितायां सुधा नास्ति


नास्ति छन्दः कला नास्ति नास्ति लालित्यमेव च
कवितायां सुधा नास्ति पश्यातङ्कं भयावहम् ।

उपमा नास्त्यलङ्कारो नास्ति काव्यस्य चेतना
कवितायामुषा नास्ति पश्य ध्वान्तं भयावहम् ।


भाषायां नास्ति माधुर्यं रसो नास्ति च कश्चन
कवितायां प्रभा नास्ति पश्य भारं भयावहम् ।

सौन्दर्यं नास्ति शब्देषु भाषायाः  गरिमा कुतः 
न काव्येष्वमृतं चास्ति दशां पश्य भयावहाम् ।


:नरेन्द्र पराशर

No comments:

Post a Comment