Saturday, February 1, 2014

कवितायां सुधा नास्ति


नास्ति छन्द : कला नास्ति नास्ति लालित्यमेव
कवितायां सुधा नास्ति पश्यातङ्कं भयावहम्

अलङ्कारोपमा नास्ति नास्ति काव्यस्य चेतना
कवितायामुषा नास्ति पश्य ध्वान्तं भयावहम् ।

भाषायां नास्ति माधुर्यं रसानि कानिचित्
कवितायां प्रभा नास्ति पश्य भारं भयावहम् ।

सौन्दर्यँ नास्ति शब्देषु भाषाया : गरिमा कुत :
कवितायामृतं नास्ति ह्यभवत् किम् भयावहम् ।


:नरेन्द्र पराशर

No comments:

Post a Comment